यतः प्रवृत्तिर्भूतानां...

विकिसूक्तिः तः

सुभाषितम्

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥




तात्पर्यम्

येन इदं जगत् निर्मितं, यः इदं जगत् आवृत्य स्थितवान् तस्मै भगवते आत्मना क्रियमाणानि सर्वाणि कर्तव्यानि पूजा इति भावेन समर्पणेन मानवः सिद्धिं प्राप्नोति ।