अन्नदानं परं दानं...

विकिसूक्तिः तः

सुभाषितम्

अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ॥

annadānaṃ paraṃ dānaṃ vidyādānamataḥ param ।
annena kṣaṇikā tṛptiryāvajjīvaṃ ca vidyayā ॥

पदच्छेदः

अन्नदानं, परं, दानं, विद्यादानम्, अतः, परम्, अन्नेन, क्षणिका, तृप्तिः, यावत्, जीवं, च, विद्यया ॥


तात्पर्यम्

अन्नदानं श्रेष्ठं दानम् । किन्तु ततोपि श्रेष्ठं विद्यादानम् । अन्नदानेन या तृप्तिः भवति सा क्षणिका। किन्तु विद्यया प्राप्यमाणा तृप्तिः आजीवनं तिष्ठति ।


आङ्ग्लार्थः

The offering of food is great; the offering of education is even greater. While food satisfies only momentarily, education satisfies during the entire course of life.

"https://sa.wikiquote.org/w/index.php?title=अन्नदानं_परं_दानं...&oldid=17447" इत्यस्माद् प्रतिप्राप्तम्