स्मृतिसूक्तयः (दानम्)
<poem> १. अकृते वैश्वदेवे तु
- ये भुञ्जन्ति द्विजातयः ।
- वृथा ते तेन पाकेन
- काक योनिं व्रजन्ति ते ॥
- शंखलिखितस्मृतिः, श्लोकः ३
२. अक्रोधनाः, सत्यपरा
- धर्मनित्या दमे रताः ।
- तादृशाः साधवो लोके
- तेभ्यो दत्तं महत्फलम् ॥
- वृद्धगौतमस्मृतिः, १२/२१
३. अनाहूतेषु यद्दत्तं
- यच्च दत्तमयाचितम् ।
- भविष्यति युगस्यान्त -
- स्तस्यान्तो न भविष्यति ॥
- व्यासस्मृतिः, ४/२६
४. अक्षरद्वयमभ्यस्तं
- नास्ति नास्तीति यत्पुरा
- तदिदं देहि देहीति
- विपरीतमुपस्थितम् ॥
- मार्कण्डेयस्मृतिः, पृ.९२
५. अदेशकाले यद् दान
- मपात्रेभ्यश्च दीयते ।
- असत्कृतमवज्ञातं
- तत्तामसमुदाहृतम् ॥
- मार्कण्डेयस्मृतिः पृ. ९७
६. अदेयं यच्च गृह्णाति
- यश्चादेयं प्रयच्छति ।
- उभौ तौ चोरवच्छास्यौ
- दाप्यौ चोत्तमसाहसम् ॥
- व्यवहारप्रकाशः,पृ.९९
७. अधमं याच्यमानं स्यात् ।
- बृहत्पराशरसंहिता, १/२८
८. अन्नदः प्राणदो लोके
- प्राणदः सर्वदो भवेत् ।
- वृद्धगौतमस्मृतिः १२/ ३७
९. अन्नदानं परो धर्मः ।
- परमसंहिता, १२/ ४४
१०. अन्नं प्राणो मनुष्याणा-
- मन्नदः प्राणदो भवेत् ।
- तस्मादन्नं विशेषेण
- दातव्यं भूतिमिच्छता ॥
- वृद्धगौतमस्मृतिः, ६/७३
११. अन्नाद् दशगुणं पुण्यं
- लभेद् दाता न संशयः ।
- लघ्वाश्वलायनस्मृतिः श्लोकः १५१
१२. अन्नदो भवति श्रीमान् ।
- लौगाक्षिस्मृतिः,पृ. ३३८
१३. अन्नं ब्रह्म समाख्यातं
- यतो भूतानि तेन वै ।
- लौगाक्षिस्मृतिः, पृ.३३८
१४. अन्ने श्रितानि भूतानि
- अन्नं प्राणमिति श्रुतिः ।
- तस्मादन्नं प्रदातव्य-
- मन्नं हि परमं हविः ॥
- बोधायनस्मृतिः २/३/६८
१५. अपुण्यस्थाने यद्दत्तं
- वृथा दानं प्रकीर्तितम् ।
- बृहत्पराशरस्मृतिः १०/ ३१७
१६. अपात्रेषु तु यद्दत्तं
- दहत्यासप्तमं कुलम् ।
- अत्रिस्मृतिः श्लोकः,१४९
१७. अयाचित प्रदाता वै
- स याति गतिमुत्तमाम् ।
- वृद्धगौतमस्मृतिः ३४/४७
१८. अयाचितं धनं पूतं
- शुक्लवृत्त्या समागतम् ।
- प्रजापतिस्मृतिः श्लोकः ४६
१९. अर्थिने सततं देयम् ।
- मार्कण्डेयस्मृतिः,पृ.१०१
२०. अश्रोत्रिये वृथा दानं
- वृथा श्राद्धमदक्षिणम् ।
- व्याघ्रपादस्मृतिः, श्लोकः२१७
२१. अस्नात्वाऽश्नन् मलं भुङ्क्ते
- अजप्त्वा पूयशोणितम्
- अजुह्वंश्च कृमीन् कीटान्
- अददंश्च शकृत्तथा ॥
- बृहत्पराशरस्मृतिः, २/ २२५
२२. आतुरस्य भिषङ्मित्रं
- दानं मित्रं मरिष्यतः ।
- शातातपस्मृतिः स्मृतिचन्द्रिका, अशोचकाण्डः,पृ,७९
२३. इष्टो वा यदि वा मूर्खो
- द्वेष्यः पण्डित एव वा ।
- प्राप्तस्तु वैश्वदेवान्ते
- सोऽतिथिः स्वर्गसंक्रमः ।
- शंखलिखितस्मृतिः, श्लोकः ६
२४. ऊषरे वापितं बीजं
- भिन्नभाण्डेषु गोदुहम् ।
- हुतं भस्मनि हव्यं च
- मूर्खे दानमशाश्वतम् ॥
- व्यासस्मृतिः ४/६३
२५. एकमप्यक्षरं यस्तु
- गुरुः शिष्ये निवेदयेत् ।
- पृथिव्यां नास्ति तद्द्रव्यं
- यद् दत्त्वा त्वनृणीभवेत् ॥
- लघुहारीतस्मृतिः,पृ.१७८
२६. कपिला सर्वपापघ्नी ।
- मार्कण्डेयस्मृतिः,पृ.११३
२७. कामधुग्धेनुवद्दानं
- फलत्याभीप्सितं फलम् ।
- मार्कण्डेयस्मृतिः,पृ.९१
२८. कुटुम्बिने दरिद्राय
- श्रोत्रियाय विशेषतः ।
- यद्दानं दीयते तस्मै
- तद्दानं शुभकारणम् ॥
- पराशरस्मृतिः १२/४८
२९. कुटुम्बिने दरिद्राय
- श्रोत्रियाय विशेषतः ।
- यद्दानं दीयते तस्मै
- तदायुर्वृद्धिकारकम् ॥
- पराशरस्मृतिः, १२/४५
३०. केवलं धर्मबुद्ध्या यद्
- धर्मदानं तदुच्यते ।
- मार्कण्डेयस्मृतिः,पृ.९५
३१. केवलाघो भवति केवलादी । बोधायनस्मृतिः, २/ ७/ २३
३२. कृपणेन शवेनेव
- मृतेनापि न दीयते ।
- मांसं वर्धयता तेन
- काकस्योपकृतिः कृता ॥
- शार्ङ्गधरपद्धतिः, श्लोकः ३८८
३३. गुणान्विताय दातव्यं
- नास्ति मूर्खे व्यतिक्रमः ।
- व्यासस्मृतिः ४/३३
३४. गृहदानं महादानं
- न दानं तु गृहात्परम् ।
- येन दानेन अरुण !
- सर्वदत्तं कृतं स्मृतम् ॥
- अरुणस्मृतिः, श्लोकः३७
३५. चन्द्रसूर्यग्रहे चैव
- दत्तं भवति चाक्षयम् ।
- संवर्तस्मृतिः श्लोकः २०८
३६. तपः परं कृतयुगे
- त्रेतायां ज्ञानमुच्यते ।
- द्वापरे यज्ञमेवाहु –
- र्दानमेव कलौ युगे ॥
- मार्कण्डेयस्मृतिः,पृष्ठम् ९१
३७. त्रायते दानमप्येकं
- पात्रभूते कृते द्विजे ॥
- वृद्धगौतमस्मृतिः ३/८०
३८. त्रीण्याहु रतिदानानि
- गावः पृथ्वी सरस्वती ।
- मनुस्मृतिपरिशिष्टम्
३९. त्रीण्याहुरतिदानानि
- धेनुः पृथ्वी सरस्वती ।
- मार्कण्डेयस्मृतिः ,पृ.११२
४०. दत्तं नैव पुनर्दद्यात् ।
- लघ्वाश्वलायनस्मृतिः, श्लोकः १५३
४१. दत्तं पितॄणां किल चाक्षयं स्यात् ।
- प्रजापतिस्मृतिः श्लोकः २३
४२. दरिद्रायैव हि दातव्यं
- न सम्मृद्धाय पाण्डव !
- वृद्धहारीतस्मृतिः, ६/९
४३. दाता नहि स्मरेद् दानम् ।
- बृहत्पराशरस्मृतिः, ६/ २४२
४४. दातारः किं विचारेण
- गुणवान्निर्गुणी भवेत् ।
- समं वर्षति पर्जन्यः
- सस्यादपि तृणादपि ॥
- शंखलिखितस्मृतिः, श्लोकः ७
४५. दातारः स्युः श्रियान्विताः ।
- मार्कण्डेयस्मृतिः, पृ.९२
४६. दातुः पालयितुः स्वर्गं
- हर्तुर्नरकमेव च ।
- व्यवहारप्रकाशः, पृ.८०
४७. दातृहस्तो भवेदूर्ध्वं
- ग्रहीतुश्च भवेदधः ।
- दातृयाचकयोर्भेदो
- हस्ताभ्यामेव सूचितः ॥
- बृहत्पराशरस्मृतिः, ६/२४५
४८. दानपालनयोर्मध्ये
- दानाच्छ्रेयोऽनुपालनम् ।
- दानात्स्वर्गमवाप्नोति
- पालनादच्युतं पदम् ॥
- व्यवहारप्रकाशः, पृ.८०
४९. दानं बन्धुर्मनुष्याणां
- दानं कोशो ह्यनुत्तमः ।
- मार्कण्डेयस्मृतिः पृ.९१
५०. दानमेव कलौ युगे ।
- पराशरस्मृतिः, श्लोकः २३
५१. दानं दातव्यमित्येव
- मतिं कृत्वा द्विजाय वै ।
- उपकारवियुक्ताय
- दत्तं यत्तद्धि सात्त्विकम् ॥
- वृद्धगौतमस्मृतिः, ३/३७
५२. दानहोमफलं धनम् ॥
- बृद्धगौतमस्मृतिः, १४/४५
५३. दानं हि विधिना देयं
- काले पात्रे गुणान्विते ।
- दक्षस्मृतिः ३/२५
५४. दानादृते नोपकारः ।
- मार्कण्डेयस्मृतिः,पृ.९१
५५. दानानामुत्तमं दानं
- विद्यादानंविदुर्बुधाः ।
- मार्कण्डेयस्मृतिः,पृ.११६
५६. दानेन प्राप्यते स्वर्गो
- दानेन सुखमश्नुते ।
- इहामुत्र च दानेन
- पूज्यो भवति मानवः ।
- बृहत्पराशरस्मृतिः, १०/२
५७. दानेन भोगी भवति
- मेधावी वृद्धसेवया ।
- अहिंसया च दीर्घायु-
- रिति प्राहुर्महर्षयः ॥
- मार्कण्डेयस्मृतिः,पृ.९१
५८. दानेन लभ्यते विद्या ।
- मार्कण्डेयस्मृतिः,पृ.९१
५९. दानेन शत्रून् जयति ।
- मार्कण्डेयस्मृतिः,पृ.९१
६०. दीक्षाचर्या यज्ञचर्याः
- सर्वचर्याः क्षणान्नृणाम् ।
- दानतः सम्भवन्त्येव
- तस्माद् दानपरो भवेत् ॥
- मार्कण्डेयस्मृतिः,पृ. ९१
६१. द्रव्यं गुणवते देयम् ।
- दक्षस्मृतिः, ३/३२
६२. धनं पवित्रं विप्राणा
- मस्ति तीर्थसमर्पितम् ।
- प्रजापतिस्मृतिः श्लोकः४४
६३. धनं फलति दानेन ।
- बृहस्पतिस्मृतिः, श्लोकः ७१
६४. धर्मार्थे ब्राह्मणे दानं
- यशोऽर्थे तदनर्थकम् ।
- मनुस्मृतिपरिशिष्टम्, श्लोकः २४५
६५. न गतिर्मूर्खदानेन
- न तारोऽम्बुनि चाश्मनः ।
- तस्मात्तस्य न दातव्यं
- सह दात्रा स मज्जति ॥
- बृहत्पराशरस्मृतिः ६/२१९
६६. न ददाति द्विजो होत्रे
- लोभाद् यज्ञाङ्गदक्षिणाम् ।
- वित्ते सति कृतं कर्म
- निष्फलं स्याद् धनक्षयः ।
- लघ्वाश्वलायनस्मृतिः, श्लोकः १०/४४
६७. न दानं परिकीर्तयेत् ।
- संवर्तस्मृतिः, श्लोकः ९४
६८. न दानात् परमो धर्म-
- स्त्रिषु लोकेषु विद्यते ।
- बृहत्पराशरस्मृतिः, १०/३
६९. न दानेन विना किञ्चित्
- प्रार्थितं फलमश्नुते ।
- मार्कण्डेयस्मृतिः पृ. ९१
७०. न विद्या न तपो यस्य
- ह्यादत्ते च प्रतिग्रहम् ।
- निपातयन् स दातार-
- मात्मानमप्यधो नयेत् ॥
- बृहत्पराशरस्मृतिः, ६/२२४
७१. नष्टशौचे व्रतभ्रष्टे
- विप्रे वेद विवर्जिते ।
- दीयमानं रुदत्यन्नं
- भयाद्वै दुष्कृतं कृतम् ॥
- व्यासस्मृतिः ४/५१
७२. नारुन्तुदः स्यादार्तोऽपि ।
- मनुस्मृतिः, २/१६१
७३. नास्ति दानात्परं मित्र
- मिह लोके परत्र च ।
- अत्रिसंहिता, श्लोकः १५१
७४. नाल्पत्वं वा बहुत्वं वा
- दानस्याभ्युदयावहम् ।
- श्रद्धा भक्तिश्च दानानां
- वृद्धिक्षयकरे स्मृते ॥
- मार्कण्डेयस्मृतिः ,पृ.९४
७५. नित्यं ददाति यः साधु-
- रन्नं वेदविदो मुखे ।
- मुक्तः स्याद् दुरितात्पापाद्
- ब्रह्मसायुज्यमश्नुते ॥
- लघ्वाश्वलायनस्मृतिः, श्लोकः १५०
७६. निः स्वेभ्यो देयमेतेभ्यो
- दानं विद्या विशेषतः ।
- वैदिक::::मनुस्मृतिः, १०/२९
७७. न्यायेनार्जनमर्थानां
- वर्धनं चाभिरक्षणम्
- सत्पात्रे प्रतिपत्तिश्च
- सर्वशास्त्रेषु पठ्यते ॥
- मार्कण्डेयस्मृतिः ,पृ.९१
७८. परस्परस्य दानानि
- लोकयात्रा न धर्मतः ।
- व्यासस्मृतिः, ४/२७
७९ परदत्तापहारेण
- स्वदत्तं निष्फलं भवेत् ।
- मार्कण्डेयस्मृतिः,पृ.११६
८०. पापं प्रतिग्रहीतारं
- प्रदा तुरुपगच्छति ।
- प्रतिग्रहीतुर्यत्पुण्यं
- प्रदातारमुपैति तत् ॥
- वृद्धगौतमस्मृतिः ४/५२
८१. पात्रस्य हि विशेषेण
- दानस्यापि फलोत्तरम् ।
- मार्कण्डेयस्मृतिः,पृ.१४४
८२. पापकर्मसमायुक्ते
- पतनान्नरके नरम् ।
- त्रायते दानमेवैकं
- पात्रभूते द्विजे कृतम् ॥
- मार्कण्डेयस्मृतिः,पृ.९१
८३. पाशको मत्स्यघाती च
- व्याधः शाकुनिकस्तथा ।
- अदाता कर्षकश्चैव
- पञ्चैते समभागिनः ।
- पराशरस्मृतिः, २/१३
८४. पितॄणां नरकस्थानां
- जलं तीर्थस्य दुर्लभम् ।
- प्रजापतिस्मृतिः, श्लोकः २९
८५. प्रयत्नेन हि दातव्यो
- महादानमयो निधिः ।
- वृद्धगौतमस्मृतिः, ४/ ५३
८६. प्राप्तानामनुरूपाणां
- पात्राणां दानकर्मणः
- देशे कृत्स्नेऽपि काले वा
- नादेयं ह्यस्ति किञ्चन ॥
- मार्कण्डेयस्मृतिः, पृ. ९२
८७. प्रच्छन्नानि च दानानि
- ज्ञानं च निरहंकृतम् ।
- जप्यानि च सुगुप्तानि
- तेषां फलमनन्तकम् ॥
- बृहत्पराशरस्मृतिः, ४/६७
८८. प्रतिग्रहो न दातव्यो
- न शिला तारयेच्छिलाम् ॥
- स्मृतिचन्द्रिका,पृ.१६३
८९. ब्रह्मचारिगतं भैक्षं
- नित्यं मेध्यमिति स्थितिः ।
- बोधायनस्मृतिः, १/५/५६
९०. ब्राह्मणातिक्रमो नास्ति
- विप्रे वेदविवर्जिते ।
- ज्वलन्तमग्निमुत्सृज्य
- नहि भस्मनि हूयते ॥
- व्यासस्मृतिः, ४/३५
९१. ब्राह्मणेषु च यद्दत्तं
- यच्च वैश्वानरे हुतम् ।
- तद् धनं धनमाख्यातं
- धनं शेषं निरर्थकम् ॥
- व्यासस्मृतिः ४/३९
९२. भिक्षां ददाति विप्राय
- यतये ब्रह्मचारिणे ।
- स सर्वांल्लभते कामां-
- स्ततो याति परां गतिम् ॥
- लघ्वाश्वलायनस्मृतिः, श्लोकः १५२
९३. महदप्यफलं दानं
- श्रद्धया परिवर्जितम् ।
- मार्कण्डेयस्मृतिः, पृ० ९५
९४. मातापित्रोर्गुरौ मित्रे
- विनीते चोपकारिणि ।
- दीनानाथविशिष्टेषु
- दत्तं तत्सफलं भवेत् ॥
- दक्षस्मृतिः ३/१६
१५. यत्तु प्रत्युपकारार्थं
- फलमुद्दिश्य वा पुनः ।
- दीयते च् परिक्लिष्टं
- तद् दानं राजसं स्मृतम् ।
- मार्कण्डेयस्मृतिः,पृ,९७
९६. यथा जनित्री क्षीरेण
- पुत्रं पुष्णाति सर्वदा ।
- अनुगृह्णाति दातारं
- तथा सर्वरसैर्मही ॥
- मार्कण्डेयस्मृतिःपृ.११४
९७. यथेरिणे बीजमुप्त्वा
- न वप्ता लभते फलम् ।
- तथाऽनृचे हविर्दत्त्वा
- न दाता लभते फलम् ॥
- मनुस्मृतिः ३/ १४२
९८. यद् ददाति यदश्नाति
- तदेव धनिनो धनम् ।
- अन्ये मृतस्य क्रीडन्ति
- दारैरपि धनैरपि ॥
- व्यासस्मृतिः ४/१७
९९. यद् ददाति विशिष्टेभ्यो
- यच्चाश्नाति दिने दिने ।
- तच्च वित्तमहं मन्ये
- शेषं कस्यापि रक्षति ॥
- व्यासस्मृतिः ४/१६
१००. यद् दानं दीयते भक्त्या
- तद् भवेत्सुमहत्फलम् ।
- संवर्तस्मृतिः,श्लोकः ४९
१०१. यज्ञोऽनृतेन क्षरति
- तपः क्षरति विस्मयात् ।
- आयुर्विप्रापवादेन
- दानं च परिकीर्तनात् ।
- संवर्तस्मृतिः, श्लोकः ९५
१०२. त्यत्किंचिदपि दातव्यं
- याचितेनानुसूयया ।
- उत्पत्स्यते हि तत्पात्रं
- यत्तारयति सर्वतः ॥
- मनुस्मृतिः ४/२२८
१०३. यथाऽन्धकारं भुवनेषु लग्नं
- दीपो हि निर्वापयति प्रदीप्तः ।
- तथा नरे पापमपि प्रलीनं
- निर्वापयेद्धि कपिला प्रदानम् ॥
- वृद्धगौतमस्मृतिः, १०/७९
१०४. यथा त्वचं स्वां भुजगो विहाय
- पुनर्नवं रूपमुपैति पुण्यम् ।
- तथैव मुक्तः पुरुषः स्वपापाद्
- विराजते वै कपिला प्रदानात् ॥
- वृद्धगौतमस्मृतिः, १०/७८
१०५. यथैव दृष्ट्वा भुजगाः सुपर्ण्ं
- नश्यन्ति दूराद्विवशा भयार्ताः ।
- तथैव दृष्ट्वा कपिला प्रदानं
- नश्यन्ति पापानि नरस्य शीघ्रम् ॥
- वृद्धगौतमस्मृतिः १०/७७
१०६. यथौषधं मन्त्रकृतं नरस्य
- प्रयुक्तमात्रं विनिहन्ति रोगम् ।
- तथैव दत्ता कपिला सुपात्रे
- पापं निहन्त्याशु नरस्य सर्वम् ॥
- वृद्धगौतमस्मृतिः ९/७६
१०७. यथा जनित्री क्षीरेण
- पुत्रं वर्धयति स्वकम् ।
- दातारमनुगृह्णाति
- दत्ता ह्येवं वसुन्धरा ॥
- वृद्धगौतमस्मृतिः ६/१२०
१०८. यथा बिभर्ति गौर्वत्सं
- सृजति क्षीरमात्मनः ।
- तथा सर्वगुणोपेतं
- भूमिदं पाति सम्पदा ॥
- वृद्धगौतमस्मृतिः , ६/१२१
१०९. यथोदयस्थ सूर्यस्तु
- तमः सर्वं व्यपोहति ।
- तथा पापान्नरस्येह
- भूमिदानं व्यपोहति ॥
- वृद्धगौतमस्मृतिः ६/१२३
११०. यथा भस्म तथा मूर्खो
- विद्वान् प्रज्वलिताग्निवत् ।
- होतव्यं च समिद्धेऽग्नौ
- जुहुयात् को नु भस्मनि ॥
- बृहत्पराशरस्मृतिः ६/ २२०
१११. यथा हि क्षुधिता बाला
- मातरं पर्युपासते ।
- तथा सर्वाणि भूतानि
- ह्यन्नमेव उपासते ॥
- बृहद्योगियाज्ञवल्क्यस्मृतिः ९/१४८
११२. यस्मादन्नात्प्रजाः सर्वाः
- कल्पे कल्पेऽसृजत्प्रभुः ।
- तस्मादन्नात्परं दानं
- विद्यते नहि किंचन ॥
- संवर्तस्मृतिः श्लोकः ८१
११३. यस्मादन्नात्प्रवर्तन्ते
- धर्मार्थकामाश्चैव हि ।
- तस्मादन्नात्परं दानं
- नामुत्रेह च पाण्डव ॥
- वृद्धागौतम स्मृतिः, ६/२८
११४. यस्य वित्तं न दानाय
- नोपभोगाय कल्प्यते ।
- नापि कीर्त्यै न धर्माय
- तस्य वित्तं निरर्थकम् ॥
- मार्कण्डॆयस्मृतिः,पृ.९१
११५. यान्ग्रासान् क्षुधितो भुङ्क्ते
- ते ग्रासाः क्रतुभिः समाः
- शंखलिखितस्मृतिः श्लोकः
११६. येन येन तु भावेन
- यद् यद् दानं प्रयच्छति ।
- तत्तत्तेनैव भावेन
- प्राप्नोति प्रतिपूजितः ।
- मनुस्मृतिः ४/ २३४
११७. वस्त्रदात सुवेषः स्याद्
- रूप्यदो रूपमेव च ।
- हिरण्यदः सम्मृद्धिं च
- तेजश्चायुश्च विन्दति ॥
- संवर्तस्मृतिः श्लोकः ५२
११८. वर्षाणां हि तडागेषु
- फलं नैव पयोधिषु ।
- वृद्धगौतमस्मृतिः ७/१४
११९. वदन्ति दानं मुनयः प्रधानं
- कलौ युगे नान्यदिहास्ति किंचित् ।
- बृहत्पराशरस्मृतिः, १/४३
१२०. विद्यादानं महादानम् ।
- ब्रह्मोक्तयाज्ञवल्क्यस्मृतिः ११/६६
१२१. विद्यादानेन पुण्येन
- ब्रह्मलोके महीयते ।
- संवर्तस्मृतिः, श्लोकः ८९
१२२. विद्यादानं महीदानं
- कन्यादानमिदं त्रयम् ।
- सर्वदानोत्तमं ज्ञेयं
- तद्धि चोभयतारकम् ॥
- मार्कण्डेयस्मृतिः, पृ.११६
१२३. विद्या कामदुधा धेनुः ।
- मार्कण्डेयस्मृतिः,पृ.११६
१२४. वेदाक्षर विहीनाय
- यत्तु पूर्वोपकारिणे ।
- सम्मृद्धाय च यददानं
- तद् राजसमुदाहृतम् ॥
- वृद्धगौतमस्मृतिः, ३/३९
१२५. व्यर्थमब्राह्मणे दानं
- पतिते तस्करेऽपि च ।
- बृहत्पराशरस्मृतिः, १०/३१८
१२६. व्याधिर्दानेन नश्यति ।
- मार्कण्डेयस्मृतिः,पृ.९१
१२७. वैश्वदेव विहीनाय
- यद्दानं श्रोत्रियाय च
- दीयते तस्करायापि
- तद्दानं तामसं स्मृतम् ॥
- वृद्धगौतमस्मृतिः,३/४१
१२८. राज्ञः प्रतिग्रहस्त्याज्यो
- लोकत्रयजिगीषुभिः ।
- बृहद्य्मस्मृतिः, ५/५९
१२९. राज्ञः प्रतिग्रहाच्चैव
- ब्राह्मण्यं हि विलुप्यते ।
- बृहद्यमस्मृतिः, ५/५९
१३०. लावण्य गुणसम्पत्ति –
- र्दानादेव हि लभ्यते ।
- दानेन लभ्यते स्वर्गः
- श्रीर्दानेन हि लभ्यते ॥
- मार्कण्डेयस्मृतिः,पृ.९१
१३१. शतेषु जायते शूरः
- सहस्त्रेषु च पण्डितः ।
- वक्ता शतसहस्त्रेषु
- दाता भवति वा न वा ॥
- व्यासस्मृतिः, ४/५८
१३२. शुश्रूषाऽपि परं दानं
- मुक्तस्य महात्मनः ।
- परमसंहिता, १२/५१
१३३. श्रद्धापूतां प्रदातव्यं
- पात्रे दानं समर्चितम् ।
- बृहत्पराशरस्मृतिः, ६/३०५
१३४. श्रद्धया स्वल्पमात्रं च
- दत्तं कोटिगुणं भवेत् ।
- प्रजापतिस्मृतिः श्लोकः २५
१३५. श्रद्धयाऽन्नं प्रदातव्य-
- मिति पौराणिकी श्रुतिः ।
- वृद्धगौतमस्मृतिः १२/४५
१३६. श्रोत्रियायैव देयानि
- हव्यकव्यानि दातृभिः ।
- मनुस्मृतिः, ३/१२८
१३७. सन्ध्याहीना व्रतभ्रष्टाः
- पिशुना विषयात्मकाः ।
- तेभ्यो दत्तं निष्फलं स्यात्
- नात्र कार्या विचारणा ॥
- बृहद्यमस्मृतिः, ५/५६
१३८. सममब्राह्मणे दानं
- द्विगुणं ब्राह्मणब्रुवे ।
- सहस्त्रगुणमाचार्ये
- त्वनन्तं वेदपारगे ।
- दक्षस्मृतिः, ३/२७
१३९. समर्थो यस्य यस्तु स्या-
- दन्नं दद्यात्तु देहिनाम् ।
- बृहत्पराशरस्मृतिः, ६/ ३२९
१४०. सममब्राह्मणे दानं
- द्विगुणं ब्राह्मणब्रुवे ।
- श्रोत्रिये शतसाहस्त्र् –
- मनन्तं वेदपारगे ॥
- मार्कण्डेयस्मृतिः,प्. १४४
१४१. सर्वेषामेव दानानां
- ज्ञानदानं विशिष्यते ।
- परमसंहिता, ३१/ ५५
१४२. सर्वेषामेव दानाना-
- मन्नदानं परं स्मृतम् ।
- संवर्तस्मृतिः, श्लोकः ८१
१४३. सर्वदानफलं वक्तुं
- शक्यते किल केवलम् ।
- न तु कन्यादानफलं
- वक्तुं युगशतेन वै ।
- मार्कण्डॆयस्मृतिः,पृ.११६
१४४. सर्वं गवादिकं दानं
- पात्रे दातव्यमर्चितम् ।
- बृहत्पराशरस्मृतिः, ६/२२७
१४५. सात्त्विकं भावमास्थाय
- दानं दद्याद् विचक्षणः ।
- संवर्तस्मृतिः,श्लोकः २११
१४६. सात्त्विकानां तु दानाना-
- मुत्तमं फलमिष्यते ।
- वृद्धगौतमस्मृतिः, ३/४५
१४७. सागराः सरितः शैला-
- स्तीर्थानि विविधानि च ।
- सर्वाणि भूमिदानस्य
- कलां नार्हन्ति षोडशीम् ॥
- मार्कण्डेयस्मृतिः
१४८. सुवर्णदानं गोदानं
- भूमिदानं तथैव च ।
- नाशयत्याशु पापानि
- ह्यन्य जन्म कृतान्यपि ।
- संवर्तस्मृतिः, श्लोकः २०४
१४९. सुक्षेत्रे च सुपात्रे च
- ह्युप्तं दत्तं न नश्यति ।
- पराशरस्मृतिः श्लोकः १/४७
१५०. सुवर्णदानं भूदानं
- गोदानं चैव वासव ।
- एतत्प्रयच्छमानस्तु
- सर्वपापैः प्रमुच्यते ॥
- बृहस्पतिस्मृतिः, श्लोकः ४
१५१. हतं श्राद्धमदक्षिणम् ।
- वशिष्ठस्मृतिः १/१२