स्मृतिसूक्तयः(विद्या)

विकिसूक्तिः तः

<poem> १. यथा खनन् खनित्रेण

नरो वार्यधिगच्छति ।
तथा गुरुगतां विद्यां
शुश्रूषुरधिगच्छति ॥
मनुस्मृतिः, २/१९३

२. वेदस्याध्ययनं नित्यं

धर्मशास्त्रस्य चापि यत् ।
अजानतोऽर्थं तत्सर्वं
तुषाणां कण्डनं यथा ॥
लघुव्यासस्मृतिः , नित्याचारप्रदीपः भागः २, पृ. ५४

३. विद्याधनं तु यद्यस्य

तत्तस्यैव धनं भवेत् ।
मनुस्मृतिः,९/२०६

४. श्रुतिप्रमाण्यतो विद्वान्

स्वधर्मे निविशेत वै ।
मनुस्मृतिः २/८
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः(विद्या)&oldid=7871" इत्यस्माद् प्रतिप्राप्तम्