महाभारतसूक्तयः (पुरोहितः)

विकिसूक्तिः तः

आचार्या वै कारुणिका प्राज्ञाश्च पापदर्शिनः।
नैते महाभये प्राप्ते सम्प्रष्टव्याः कथंचन॥ विराट. ४७/२८॥

प्रासादेषु विचित्रेषु गोष्ठीषूपवनेषु च।
कथा विचित्राः कुर्वाणाः पण्डितास्तत्रशोभनाः॥ विराट. ४७/२९॥

बहून्याश्चर्यरूपाणि कुर्वाणा जनसंसदि।
इज्यास्त्रे चोपसंधाने पण्डितास्तत्र शोभनाः॥ विराट. ४७/३०॥