महाभारतसूक्तयः (प्रकृतिः)

विकिसूक्तिः तः

तमो व्यक्तं शिवं धाम रजो योनिः सनातनः।
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ॥ आश्व. ३९/२३॥

अनुद्रिक्तमनूनं वाप्यकम्पमचलं ध्रुवम्।
सदसच्चैव तत् सर्वमव्यक्तं त्रिगुणं स्मृतम्।
ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः॥ आश्व. ३९/२४॥

लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च॥ आश्व. ४४/१७॥