महाभारतसूक्तयः (प्राणी)

विकिसूक्तिः तः

स्थावरं जङ्गमं चेति जगत् द्विविधिमुच्यते।
चतस्रो योनयस्तत्र प्रजानां क्रमशो यथा॥ अनु. १४५ दा. पा. अ. IX॥

तेषामुद्भिजा वृक्षा लतावल्लयश्च वीरुधः।
दशंयूकादयश्चान्ये स्वेदजाः कृमिजातयः॥ अनु. १४५ दा. पा. अ. IX॥

पक्षिणश्छिद्रकर्णाश्च प्राणिनस्त्वण्डजा मताः।
मृगव्याल मनुष्यांश्च विद्धि तेषां जरायुजान्॥ अनु. १४५ दा. पा. अ. IX॥

तथा भूम्यम्बु संयोगाद् भवन्त्युद्भिजाः प्रिये।
शीतोष्णयोस्तु संयोगाज्जायन्ते स्वेदजाः प्रिये॥ अनु. १४५ दा. पा. अ. IX॥

अण्डजाश्चापि जायन्ते संयोगात् क्लेदबीजयोः।
शुक्रशोणितसंयोगात् सम्भवन्ति जरायुजाः
जरायुजानां सर्वेषां मानुषं पदमुत्तमम्॥ अनु. १४५ दा. पा. अ. IX॥