महाभारतसूक्तयः (ब्रह्मचर्य-आश्रमः)

विकिसूक्तिः तः

आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी।
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्मचारी॥ आदि. ९१/२॥

नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन।
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते॥ शान्ति. ३४/२६॥

स्मरन्नेको जपन्नेकः सर्वानेको युधिष्ठिरः।
एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान्॥ शान्ति. ६१/१८॥

ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी।
परिचार्य तथा वेदं कृत्यं कुर्वन् वसेत् सदा॥ शान्ति. ६१/१९॥

यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम्।
परं तत् सर्वधर्मेभ्यस्तेन यान्ति परां गतिम्॥ शान्ति. २१४/७॥

सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे श्रृणु।
सम्प्रदीप्तमुदीर्णं च निगृह्णीयात् द्विजो रजः॥ शान्ति. २१४/११॥

योषितां न कथा श्राव्या न निरीक्ष्या निरम्बराः।
कथञ्चिद् दर्शनादासां दुर्बलानां विशेद्रजः॥ शान्ति. २१४/१२॥

रागोत्पन्नश्चरेत् कृच्छ्रं महार्ति प्रविशेदपः।
मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम्॥ शान्ति. २१४/१३॥

पाप्मानं निर्दहेदेवमन्तर्भूतरजोमयम्।
ज्ञानयुक्तेन मनसा संततेन विचक्षणः॥ शान्ति. २१४/१४॥

मध्ये च हृदयस्यैका शिरा तत्र मनोवहा।
शुक्रं संकल्पजं नृणां सर्वगात्रैर्विमुञ्चति॥ शान्ति. २१४/१९॥

स्वप्नेऽप्येवं यथाभ्येति मनःसंकल्पजं रजः।
शुक्रं संकल्पजं देहात् सृजत्यस्य मनोवहा॥ शान्ति. २१४/२२॥

तस्मात् तद्भिघाताय कर्म कुर्यादकल्मषम्।
रजस्तमश्च हित्वेह यथेष्टां गतिमाप्नुयात्॥ शान्ति. २१४/२७॥

भार्यां गच्छन् ब्रह्मचारी ॠतौ भवति वै द्विजः।
ॠतवादी भवेन्नित्यं ज्ञाननित्यश्च यो नरः॥ शान्ति. २२१/११॥

ब्रह्मचर्येण वै लोकान् जयन्ति परमर्षयः।
आत्मनश्च ततः श्रेयांस्यन्विच्छन् मनसाऽऽत्मनि॥ शान्ति. २४२/६॥

गन्धान् रसान् नानुरुन्ध्यात् सुखं वा नालंकारांश्चाप्नुयात् तस्य तस्य।
मानं च कीर्तिं च यशश्च नेच्छेत् स वै प्रचारः पश्यतो ब्राह्मणस्य॥ शान्ति. २५१/१॥

भावितैः करणैश्चायं बहुसंसार योनिषु।
आसादति शुद्धात्मा मोक्षं वै प्रथमाश्रमे॥ शान्ति. ३२६/२६॥

धनं लभते दानेन मौनेनाज्ञां विशाम्पते।
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम्॥ अनुशासन. ७/१४॥

रहस्य श्रवणं धर्मो वेदव्रतनिषेवणम्।
अग्निकार्यं तथा धर्मो गुरुकार्यप्रसाधनम्॥ अनु. १४१/३५॥

भैक्षचर्या परोधर्मो नित्ययज्ञोपवीतता।
नित्यं स्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा॥ अनु. १४१/३६॥

ब्रह्मचर्यं परं शौचं ब्रह्मचर्यं परं तपः।
केवलं ब्रह्मसर्येण प्राप्यते परमं पदम्॥ अनु. १४५ दा. पा. अ. XI॥

तदिष्यते गृहस्थानां कालमुद्दिश्य कारणम्।
जन्मनक्षत्र योगेषु पुण्यवासेषु पर्वसु।
देवता धर्म कार्येषु ब्रह्मचर्यव्रतं चरेत्॥ अनु. १४५ दा. पा. अ. XI॥

ब्रह्मचर्य व्रतफलं लभेद् दाराव्रती सदा।
शौचमायुस्तथाऽऽरोग्यं लभ्यते ब्रह्मचारिभिः॥ अनु. १४५ दा. पा. अ. XI॥

ब्रह्मचारी सदैवैष य इन्द्रियजये रतः॥ आश्व. २६/१५॥

अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः।
ब्रह्मभूतश्चरंल्लोके ब्रह्मचारी भवत्ययम्॥ आश्व. २६/१६॥