अन्यत्र धर्मात् अन्यत्राधर्मात्...

विकिसूक्तिः तः

अन्यत्र धर्मात् अन्यत्राधर्मात् अन्यत्रास्मात् कृताकृतात् । - काठकोपनिषत् १-२-१४

आत्मा तु धर्मात् अधर्माच्च विलक्षणः, कृतात् अकृताच्च विलक्षणः ।

उपनिषत्सु प्रतिपादितः आत्मा देवतावत् न सावयवः कश्चित् पदार्थः । पुराणेषु उपदिष्टाः सर्वा
अपि देवताः सगुणाः सोपाधिकाः संसारिस्वरूपा एव । एता देवता उद्दिश्य वेदान्ताः न जिज्ञासां
कुर्वन्ति । उपनिषदः असंसारिणः परब्रह्मणः स्वरूपम् अधिकृत्य विचारं कुर्वन्ति ॥

अस्तु, तर्हि ‘परब्रह्मणः’ लक्षणं किम् ? इति चेत्, कठोपनिषदः अयं मन्त्रः इदम् उपदिशति ।
परब्रह्मतत्त्वम् धर्माधर्मौ, कृताकृते, देशकालान् च अत्येति इति । धर्माधर्मयोः परमात्मनः निजस्वरूपस्य
च न कोऽपि सम्बन्धोऽस्ति । कर्मणाम् अनुष्ठानेन वा त्यागेन वा ब्रह्मणि न कोऽपि विकारः सम्भवति ।
पुण्यतीर्थक्षेत्र सम्बन्धेन ब्रह्मणः अतिशयो वा अपवित्रदेशसम्बन्धेन अपवित्रता वा नास्ति । न च
कालेनापि परब्रह्मस्वरूपे कश्चिदपि विकारः सम्भवेत् । इदमेव परब्रह्मणः स्वरूपम् ॥