अन्यदेव तद्विदितादथो...
अन्यदेव तद्विदितादथो अविदितादधि । - केनोपनिषत् १-४
विदितात् अविदिताच्च विलक्षणं ब्रह्म ।
वेदान्तेषु परं ब्रह्म उपदिश्यते । परब्रह्मविदमेव ब्रह्मज्ञानिनं वदन्ति ।
परं ब्रह्मैव सकलजीविनामपि आत्मभूतम्, परमेव ब्रह्म समस्तप्रपञ्चस्यापि
उपादानं निमित्तकारणं च इति उपनिषत्सु पौनः पुन्येन उपदिश्यते ॥
अस्तु, अस्य परब्रह्मणः स्वरूपं कीदृशम् ? इति पृष्टे अयं मन्त्रः सुन्दरतया
ब्रह्मस्वरूपम् उपदिशति । इदं विश्वं विदितम् अविदितम् इति द्वेधा विभज्यते ।
विदितं नाम नामरूपाभ्यां विविक्तं, प्रमाणगोचरं कार्यं जगत् । इदमेव क्षरम्
व्यक्तम् व्याकृतम् स्थूलम् कार्यम् इति च व्यपदिश्यते । अविदितं तु
नामरूपयोः बीजस्थितिः । इदमेव अक्षरम्, अव्यक्तम्, अव्याकृतम्, सूक्ष्मम,
कारणम् इति च कथ्यते । एतद् द्वयमपि संयुज्य प्रपञ्चः, विश्वम्, जगत्
इति शास्त्रेषु उच्यते । अस्य विश्वस्य कारणभूतं ब्रह्म विदिताविदिताभ्यां
विलक्षणम् । इदमेव अक्षरम्, पुरुषः, सत्यम् इति च गीयते ॥