महाभारतसूक्तयः (भयम्)

विकिसूक्तिः तः

अभियुक्तोऽप्रमत्तश्च प्राग्भयाद् भीतवच्चरेत्॥ शान्ति. १३८/२०९॥

भीतवत् संनिधिः कार्यः प्रतिसन्धिस्तथैव च॥ शान्ति. १३८/२०९॥

भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा।
न भयं विद्यते राजन् भीतस्यानागते भये॥ शान्ति. १३८/२१०॥

अभीतस्य च विश्रम्भात् सुमहज्जायते भयम्।
अभीश्चरति यो नित्यं मन्त्रोऽदेयः कथंचन॥ शान्ति. १३८/२११॥

अविज्ञानाद्धि विज्ञातो गच्छेदास्पददर्शिषु।
न तत्सदः सत्परिषद् सभा च सा प्राप्य यां न कुरुते सदा भयम्।
धर्मतत्त्वमवगाह्य बुद्धिमान् योऽभ्युपैति स धुरंधरः पुमान्॥ शान्ति. २२६/१८॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(भयम्)&oldid=15582" इत्यस्माद् प्रतिप्राप्तम्