महाभारतसूक्तयः (भीमः)

विकिसूक्तिः तः

श्रुत्वैव शब्दं हि वृकोदारस्य मुञ्चन्ति सैन्यानि शकृत् समूत्रम्।। वन. ११९/१४॥

न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः॥ वन. १६०/३४॥

अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डव।
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः॥ उद्योग. ५१/५॥

अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे।
महेश्वरसमं क्रोधे को हन्याद् भीममाहवे॥ उद्योग. ५१/१४॥

निष्ठुरो रोषणोऽर्त्थं भज्येतापि न संनमेत्।
तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद् वृकोदरः॥ उद्योग. ५१/१८॥

शूरस्तथाप्रतिबलो गौरस्ताल इवोन्नतः।
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात्॥ उद्योग. ५१/१९॥

जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान्।
अव्यक्तजल्पी मध्वक्षः मध्यमः पाण्डवो बली॥ उद्योग. ५१/२०॥

पराक्रमे शक्रसमो मातरिश्वसमो बले।
महेश्वरसमः क्रोधेः भीमः प्रहरतां वरः॥ उद्योग. ९०/२४॥

वृकोदरो गजशततुल्यविक्रमः॥ द्रोण. २/१६॥

युगान्ते चान्तको राजन् जामदग्न्यश्च वीर्यवान्।
रथस्थो भीमसेनश्च कथ्यन्ते सदृशस्त्रयः॥ द्रोण. ३४/४॥

मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः।
प्रतिज्ञातं तेनोग्रं भज्येतापि न संनमेत॥ शान्ति. ५/१४॥

युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः॥ आश्रमवास. १३/८॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(भीमः)&oldid=15590" इत्यस्माद् प्रतिप्राप्तम्