महाभारतसूक्तयः (भोगः)

विकिसूक्तिः तः

मात्रा स्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥ भीष्म. २६/१४; गीता. २/१४॥

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥ भीष्म. २६/१५; गीता. २/१५॥

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते।
सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते॥ भीष्म. २६/६२; गीता. २/६२॥

क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः।
स्मृतिभंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति॥ भीष्म. २६/६३; गीता. २/६३॥

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥ भीष्म. २९/२२; गीता. ५/२२॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(भोगः)&oldid=15634" इत्यस्माद् प्रतिप्राप्तम्