आम्रसेक-पितृतर्पणन्यायः

विकिसूक्तिः तः

आम्रवृक्षस्य मूले पितृतर्पणं क्रियते चेत् तत् जलं आम्रवृक्षः प्राप्नोति । अर्थात् जलाञ्जलेः फलद्वयम् अस्ति -पितृतर्पणं भवति आम्रवृक्षस्य कृते जलमपि लभ्यते । एकया एव क्रियया फलद्वयं लभ्यत इति अनेन न्यायेन सूच्यते ।

आम्राश्च सिक्ताः पितरश्च तृप्ताः । एका क्रिया द्वयर्थकरी प्रसिद्धा ॥
द्रष्टव्यम् -आम्राश्च सिक्ताः पितरश्च प्रीणिता महाभाष्ये १-१-१