उदकविशीर्णन्यायः

विकिसूक्तिः तः

उदके क्षिप्त इति । अग्नेः अनेकाः उपयोगाः सन्ति । परन्तु अयम् अग्निः जले क्षिप्तः चेत् शान्तः भवति । जलम् अग्निः इति द्वयम् अपि स्वतन्त्ररीत्या तावत् उपकारं करोति । द्वयम् एकत्र आगतं चेत् द्वयोः अपि शक्तिः नष्टा भवति । निष्फलस्य कर्मणः सूचनाय अस्य न्यायस्य प्रयोगः भवति । जीवन्मुक्तानां संसारः अपि एवंविधः भवति ।

"https://sa.wikiquote.org/w/index.php?title=उदकविशीर्णन्यायः&oldid=8482" इत्यस्माद् प्रतिप्राप्तम्