महाभारतसूक्तयः (महत्-तत्त्वम्)

विकिसूक्तिः तः

अव्यक्तात् पूर्वमुत्पन्नो महानात्मा महामतिः।
आदिर्गुणानां सर्वेषां प्रथमः सर्व उच्यते॥ आश्व. ४०/१॥

अहंकारात् प्रसृतानि महाभूतानि पञ्च वै।
पृथिवी वायुराकाशमपो ज्योतिश्च पञ्चमम्॥ आश्व. ४०/९॥

तेषु भूतानि युज्यन्ते महाभूतेषु पञ्चसु।
ते शब्दस्पर्शरूपेषु रसगन्धक्रियासु च॥ आश्व. ४०/१०॥

महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते।
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम्॥ आश्व. ४०/११॥

य उत्पन्नो महान् पूर्वमहंकारः स उच्यते।
अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते॥ आश्व. ४१/१॥

अहंकारश्च भूतादिर्वैकारिक इति स्मृतः।
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः॥ आश्व. ४१/२॥

देवानां प्रभवो देवो मनसश्च त्रिलोककृत्।
अहमित्येव तत्सर्वमभिमन्ता स उच्यते॥ आश्व. ४१/३॥

अहंकारेणाहरतो गुणानिमान् भूतादिरेवं सृजते स भूतकृत्।
वैकारिकः सर्वमिदं विचेष्टते स्वतेजसा रञ्जयते जगत् तथा॥ आश्व. ४१/५॥

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः।
क्रियाः करणनित्याः स्युरनित्या मोहसंज्ञिताः॥ आश्व. ४२/६॥

आकाशमुत्तमं भूतमहंकारस्ततः परः॥ आश्व. ५०/५४॥

अहंकारात् परा बुद्धिर्बुद्धेरात्मा ततः परः।
तस्मात् तु परमव्यक्तमव्यक्तात् पुरुषः परः॥ आश्व. ५०/५५॥