महाभारतसूक्तयः (मौनम्)

विकिसूक्तिः तः

दहत्यग्निरवाक्यस्तु तूष्णीं भवति दिवाकरः।
तूष्णीं धारयते लोकान् वसुधा सचराचरान्॥ विराट. ५०/३॥

मौने ज्ञानफलावाप्तिर्दानेन च यशो महत्।
वाग्मित्वं सत्यवाक्येन परत्र च महीयते॥ शान्ति. ३६/१०॥