महाभारतसूक्तयः(यशः)

विकिसूक्तिः तः

नष्टकीर्तेमनुष्यस्य जीवितं ह्यफलं स्मृतम्॥ आदि. २०२/१०॥

नष्टकीर्तिस्तु नश्यति॥ आदि. २०२/११॥

युक्तं हि यशसा युक्तं मरणं लोकसम्मतम्॥ वन. ३००/२८॥

कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति॥ वन. ३००/३१॥

कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत्।
अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः॥ वन. ३००/३२॥

कीर्तिरायु नरस्य ह॥ वन. ३००/३३॥

पुरुषस्य परे लोके कीर्तिरेव परायणम्।
इह लोके विशुद्धा च कीर्तिरायुर्विवर्द्धनी॥ वन. ३००/३४॥

कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत्॥ वन. ३०१/१३॥

धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप॥ शल्य. ३२/१६॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(यशः)&oldid=15497" इत्यस्माद् प्रतिप्राप्तम्