उभयतस्पाशरज्जुन्यायः

विकिसूक्तिः तः

एका एव रज्जुः उभयकोटिं बध्नाति चेत् ततः मोक्षः न भवति । एवम् अग्रे कूपः पृष्ठे गर्तः इति वत् यदा सर्वथा अगतिः भवति तदा तस्याः वर्णनं कर्तुम् अस्य न्यायस्य प्रयोगः क्रियते । यथा-

अ) यद्यपि न बोधस्तथापि विकल्पस्तावत् प्राप्नोति । न हि तुल्यार्थानां क्वचित् समुच्चयो दृष्टः । सेयमुभयतस्पाशा रज्जुः ॥ सर्वदर्शनसंग्रहे बौद्धदर्शनम् (२८२)
"https://sa.wikiquote.org/w/index.php?title=उभयतस्पाशरज्जुन्यायः&oldid=8615" इत्यस्माद् प्रतिप्राप्तम्