उलूखलमुसलन्यायः

विकिसूक्तिः तः

एकदा उलूखलः मुसलं प्रति गत्वा एकम् आक्षेपं कृतवान् । ‘सर्वे जनाः मां सर्वदा मारयन्ति प्रहरन्ति एव’ इति । तत् श्रुत्वा मुसलः प्रत्युत्तरं दत्तवान् -‘त्वाम् एकस्मिन् एव पार्श्वे प्रहरन्ति मां तु सर्वे उभययोः पार्श्वयोः प्रहरन्ति’ इति । एतम् काल्पनिकं संवादम् आश्रित्य अयं न्यायः प्रवृत्तः । दुःखं सर्वेषाम् अपि भवति । सर्वोऽपि मम एव दुःखम् असह्यम् इति चिन्तयति । परन्तु अपरस्य दुःखं ततः अपि अधिकं भवेत् । सर्वस्य अपि किमपि दुःखं भवति एव ।

"https://sa.wikiquote.org/w/index.php?title=उलूखलमुसलन्यायः&oldid=8570" इत्यस्माद् प्रतिप्राप्तम्