महाभारतसूक्तयः(विद्या)

विकिसूक्तिः तः

अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः॥ उद्योग. ४०/४॥

आलस्यं मदमोहौ च चापलं गोष्ठिरेव च।
स्तब्धता चाभीमानित्वं तथात्यागित्वमेव च।
एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः॥ उद्योग. ४०/५॥

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्।
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम्॥ उद्योग. ४०/६॥

श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात्।
सुवर्णमपि चामेध्यादाददीताविचारयन्॥ शान्ति. १६५/३१॥

नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः॥ शान्ति. ३२९/६॥

नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥ शान्ति. १७४/३५॥

परावरं तु भूतानां ज्ञानेनैवोपलभ्यते।
विद्यया तात सृष्टानां विद्यैवेह परा गतिः॥ शान्ति. २३७/१०॥

नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं फलम्॥ शान्ति. २७७/३५॥

यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्पराः।
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा॥ शान्ति. ३०५/१३॥

विद्या धर्मार्थ फलिनी तद्विदो वृद्धसंज्ञिताः॥ अनु. १४५ दा. पा. I॥

विद्यायोगस्तु सर्वेषां पूर्वमेव विधीयते।
कार्याकार्यं विजानन्ति विद्यया देवि नान्यथा॥ अनु. १४५ दा. पा. I॥

विद्यया स्फीयते ज्ञानं ज्ञानात् तत्त्वविदर्शनम्।
दृष्टतत्त्वो विनीतात्मा सर्वार्थस्य च भाजनम्॥ अनु. १४५ दा. पा. V॥

शक्यं विद्याविनीतेन लोके संजीवनं शुभम्॥ अनु. १४५ दा. पा. V॥

विद्यादानं तथा देवि पात्रभूताय वै ददत्।
प्रेत्यभावे लभेन्मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम्॥ अनु. १४५ दा. पा. XI॥

दापनं त्वथ विद्यानां दरिद्रेभ्योऽर्थवेदनैः।
स्वयं दत्तेन तुल्यं स्यादिति विद्धि शुभानने॥ अनु. १४५ दा. पा. XI॥

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश॥ अनु. ९२ दा. पा. XX॥