महाभारतसूक्तयः(विधवा)

विकिसूक्तिः तः

उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः।
प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम्॥ आदि. १५७/१२॥

व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परां गतिम्।
सर्वापि विधवा नारी बहुपुत्रापि शोचते॥ शान्ति. १४८/२॥

शोच्या भवति बन्धूनां पतिहीना तपस्विनी॥ शान्ति. १४८/३॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(विधवा)&oldid=15538" इत्यस्माद् प्रतिप्राप्तम्