महाभारतसूक्तयः(विपरीतबुद्धिः)

विकिसूक्तिः तः

असम्भवे हेममयस्य जन्तो स्तथापि रामो लुलुभे मृगाय।
प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्ति॥ सभा. ७६/५॥

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्॥ उद्योग. ३४/८१॥

बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति॥ सभा. ८१/८॥

बुद्धौ कलुषभूतायां विनाशे समुपस्थिते॥ उद्योग. ३४/८२॥

अनयो नय संकाशो हृदयान्नापसर्पति॥ सभा. ८१/९॥

अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः।
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते॥ सभा. ८१/१०॥

सुहृदां हितकामानां वाक्यं यो न श्रृणोति ह।
स महद् व्यसनं प्राप्य शोचते वै यथा भवान्॥ द्रोण. ११४/४९॥