महाभारतसूक्तयः(विवाहः)

विकिसूक्तिः तः

मनोवाग्बुद्धिसम्भाषा दत्ता चोदकपूर्वकम्॥ द्रोण. ५५/१५॥

पाणिग्रहणमन्त्राश्च प्रथितं वरलक्षणम्।
न त्वेषा निश्चिता निष्ठा निष्ठा सप्तपदी स्मृता॥ द्रोण. ५५/१६॥

शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च।
सद्भिरेवं प्रदातव्या कन्या गुणयुते वरे॥ अनुशासन. ४४/३॥

ब्राह्मणानां सतामेष ब्राह्मो धर्म युधिष्ठिर।
आवाह्यमावहेदेवं यो दद्यादनुकूलतः॥ अनुशासन. ४४/४॥

शिष्टानां क्षत्रियाणां च धर्म एष सनातनः।
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः॥ अनु. ४४/५॥

अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर।
गान्धर्वमिति तं धर्मं प्राहुर्वेदविदो जनाः॥ अनुशासन. ४४/६॥

धनेन बहुधा क्रीत्वा सम्प्रलोभ्य च बान्धवान्।
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः॥ अनुशासन. ४४/७॥

हत्वा छित्वा च शीर्षाणि रुदतां रुदतीं गृहात्।
प्रसह्य हरणं तात राक्षसो विधिरुच्यते॥ अनुशासन. ४४/८॥

पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर।
पैशाचश्चासुरश्चैव न कर्तव्यो कथंचन॥ अनुशासन. ४४/९॥

तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु।
वैश्यः स्वजात्यां विन्देत तास्वापत्यं समं भवेत्॥ अनुशासन. ४४/११॥

त्रीणि वर्षाण्युदीक्षेत कन्या ॠतुमती सती।
चतुर्थे त्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत्॥ अनुशासन. ४४/१६॥

न ह्येवं भार्या क्रेतव्या न विक्रय्या कथंचन॥ अनुशासन. ४४/४६॥

अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम्।
परिक्रम्य यथान्यायं भार्यां विन्देद् द्विजोत्तमः॥ अनुशासन. ४४/५६॥