अपारभूमिविस्तारम्...

विकिसूक्तिः तः

सुभाषितम्

अपारभूमिविस्तारम् अगण्यजनसङ्कुलम् ।
राष्ट्रं सङ्घटनाहीनं प्रभवेन्नात्मरक्षणे ॥

apārabhūmivistāram agaṇyajanasaṅkulam ।
rāṣṭraṃ saṅghaṭanāhīnaṃ prabhavennātmarakṣaṇe ॥

पदच्छेदः

अपारभूमिविस्तारम्, अगण्यजनसङ्कुलम्, राष्ट्,रं सङ्घटनाहीनं, प्रभवेत्, आत्मरक्षणे ॥


तात्पर्यम्

अत्यन्तं विस्तृता भूमिः, गणनातीतं जनबाहुल्यं विद्यते चेदपि राष्ट्रं सङ्घटितं यदि न स्यात् तर्हि तत् स्वस्य रक्षणे असमर्थं भवति।


आङ्ग्लार्थः

Even if it has an immense expanse of land and crowded with countless people, a nation without organization cannot be able to protect itself.

"https://sa.wikiquote.org/w/index.php?title=अपारभूमिविस्तारम्...&oldid=17830" इत्यस्माद् प्रतिप्राप्तम्