महाभारतसूक्तयः(वेदः)
यानीहागमशास्त्राणि याश्च किंचित् प्रवृत्तयः।
तानि वेदानि पुरस्कृत्य प्रवृत्तानि यथाक्रमम्॥ अनु. १२२/४॥
चरतस्तु समुद्भूता वेदाः साङ्गाः सहोत्तराः।
तांल्लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकाम्यया।
देहजं तत् तमो घोरं वेदैरेव विनाशितम्॥ अनु. १४५ दा. पा. अ. IX॥
कार्याकार्यमिदं चेति वाच्यावाच्यमिदं त्विति।
यदि चेन्न भवेल्लोके श्रुतं चारित्रदैशिकम्॥
पशुभिर्निविशेषं तु चेष्टन्ते मानुषा अपि॥ अनु. १४५ दा. पा. अ. IX॥
यज्ञादीनां समारम्भः श्रुतेनैव विधीयते।
यज्ञस्य फलयोगेन देवलोकः समृद्ध्यते॥ अनु. १४५ दा. पा. अ. IX॥
प्रीतियुक्ताः पुनर्देवा मानुषाणां भवन्त्युत।
एवं नित्यं प्रवर्धेते रोदसी च परस्परम्॥ अनु. १४५ दा. पा. अ. IX॥
लोकसंधारणं तस्माच्छ्रतमित्यवधारय।
ज्ञानाद् विशिष्टं जन्तूनां नास्ति लोकत्रयेऽपि॥ अनु. १४५ दा. पा. अ. IX॥
सम्प्रगृह्य श्रुतं सर्वं कृतकृत्यो भवत्युत।
उपर्युपरि मर्त्यानां देववत् सम्प्रकाशते॥ अनु. १४५ दा. पा. अ. IX॥
कामं क्रोधं भयं दर्पमज्ञानं चैव बुद्धिजम्।
तच्छुतं नुदति क्षिप्रं यथा बायुर्बलाहकान्॥ अनु. १४५ दा. पा. अ. IX॥
भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥ आश्व. ९२ दा. पा. अ. III॥
तस्मात् तु सर्ववेदानां सावित्री प्राण उच्यते।
निर्जीवा हीतरे वेदा बिना सावित्रिया नृप॥ आश्व. ९२ दा. पा. अ. IV॥
सहस्रपरमां देवीं शतमध्यां शतावराम्।
सावित्रीं जप कौन्तेय सर्वपापप्रणाशिनीम्॥ आश्व. ७२ दा. पा. अ. IV॥
धर्मं विज्ञासमानानां प्रमाणं परमं श्रुतिः।
द्वितीयं धर्मशास्त्राणि तृतीयं लोकसंग्रहः॥ आश्व. ९२ दा. पा. अ. XV॥