महाभारतसूक्तयः(वैभवम्)

विकिसूक्तिः तः

अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु।
रक्षणं समुपात्तानामेतद् वैभव लक्षणम्॥ सभा. ५४/७॥

प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान्॥ सभा. ७५/१०॥

सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्।
वर्तमानः सुखे सर्वो मुह्यतीति मतिर्मम॥ वन. १८१/३०॥