महाभारतसूक्तयः(शरीरम्)

विकिसूक्तिः तः

शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते।
तत्त्वबुद्धेः शरीरस्थं मनो नामार्थचिन्तकम्॥ शान्ति. २५४/९॥

इन्द्रियाणि मनः पौरास्तदर्थं तु पराकृतिः।
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा।
तदर्थमुपजीवन्ति पौराः सह पुरेश्वरैः॥ शान्ति. २५४/१०॥

एक प्रसूयते राजन्नेक एव विनश्यति॥ अनु. १११/११॥

एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम्।
असहायः पिता माता तथा भ्राता सुतो गुरुः॥ अनु. १११/१२॥

ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च।
मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं जनाः॥ अनु. १११/१३॥

मुहूर्तमिव रोदित्वा ततो यान्ति पराङ्मुखाः।
तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति॥ अनु. १११/१४॥

तस्माद् धर्मः सहायश्च सेवितव्यः सदा नृभिः।
प्राणी धर्म समायुक्तो गच्छेत् स्वर्ग गतिं पराम्॥ अनु. १११/१५॥

तथैवाधर्म संयुक्तो नरकं चोपपद्यते।
तस्मान्न्यायगतैरर्थैर्धर्मं सेवेत पण्डितः॥ अनु. १११/१६॥

धर्म एको मनुष्याणां सहायः पारलौकिकः।
लोभान्मोहादनुक्रोशाद् भयाद् वाप्यबहुश्रुतः॥ अनु. १११/१७॥

नरः करोत्यकार्याणि परार्थे लोभमोहितः।
पृथिवी वायुराकाशमापो ज्योतिर्मनोऽन्तकः॥ अनु. १११/२१॥

बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा।
प्राणिनामिह सर्वेषां साक्षिभूता निशानिशम्।। अनु. १११/२२॥

एतैश्च सह धर्मोऽपि तं जीवमनुगच्छति।
यदि धर्मं यथाशक्ति जन्म प्रभृति सेवते।
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम्॥ अनु. १११/३८॥

अधर्मेण समायुक्तो यमस्य विषयं गतः।
महद् दुःखं समासाद्य तिर्यग्योनौ प्रजायते॥ अनु. १११/४४॥