महाभारतसूक्तयः(श्रेष्ठस्त्री)

विकिसूक्तिः तः

भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते॥ सभा. ७९/७॥

वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः॥ वन. ७०/८॥

रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन।
प्राणांश्चारित्रकवचान् धारयन्ति वरस्त्रियः॥ वन. ९०/९॥

स्त्रीणां वृत्तं पूज्यते देहरक्षा॥ वन. ३०६/२३॥

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः।
स्त्रियः श्रियो गृहस्योक्तास्तस्माद् रक्ष्या विशेषतः॥ उद्योग. ३८/११॥

पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनी॥ उद्योग. १७६/७॥

गतिः पतिः समस्थाया विषमे च पिता गतिः।
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः॥ उद्योग. १७६/८॥

स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्।
अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः॥ शान्ति. १६५/३२॥