महाभारतसूक्तयः(संसारः)

विकिसूक्तिः तः

न नूनं विद्यते सत्यं मानुषे किंचिदेव हि॥ शल्य. ६५/१३॥

जन्ममृत्यु जराव्याधि वेदनाभिरभिद्रुतम्।
अपारमिव चास्वस्थं संसारं त्यजतः सुखम्॥ शान्ति. ९/३३॥

दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः।
इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम्॥ शान्ति. १५३/८४॥

नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम्।
नरके दुःखमेवाहुः सुखं तत्परमं पदम्॥ शान्ति. १९०/१४॥

पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम्॥ शान्ति. २३५/११॥

मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान्।
कालमभ्युद्यतं पश्येन्नित्यमत्यन्तमोहनम्॥ शान्ति. २३५/१२॥

महता विधिदृष्टेन बलेनाप्रतिघातिना।
स्वभावस्त्रोतसा वृत्तमुह्यते सततं जगत्॥ शान्ति. २३५/१३॥

कालोदकेन महता वर्षावर्तेन संततम्।
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च॥ शान्ति. २३५/१४॥

निमेषोन्मेषफेनेन अहोरात्रजलेन च।
कामग्राहेण घोरेण वेदयज्ञप्लवेन च॥ शान्ति. २३५/१५॥

धर्मद्वीपेन भूतानां चार्थकामजलेन च।
ॠतवाङ्मोक्षतीरेण विहिंसातरुवाहिना॥ शान्ति. २३५/१६॥

युगह्रदौघमध्येन ब्रह्मप्रायभवेन च।
धात्रा सृष्टानि भूतानि कृष्यन्ति यमसादनम्॥ शान्ति. २३५/१७॥

एतत् प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः।
प्लवैरप्लवन्तो हि किं करिष्यन्त्यचेतसः॥ शान्ति. २३५/१८॥

संघातवन्मर्त्यलोकः परस्परमपाश्रितः।
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति॥ शान्ति. २९८/१६॥