महाभारतसूक्तयः(सज्जनः)

विकिसूक्तिः तः

सन्तः सत्याभिनन्दिनः॥ आदि. ९३/१७॥

सत्यं हि सन्तः प्रतिपूजयन्ति॥ आदि. ९३/३५॥

नार्याः म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत॥ सभा. ५९/११॥

न चैवोक्ता न चानुक्ताः हीनतः परुषा गिरः।
भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः॥ सभा. ७२/८॥

स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि।
सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम्॥ सभा. ७२/९॥

विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः॥ सभा. ७३/६॥

सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम्॥ सभा. ७३/७॥

संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः।
प्रत्याहुर्मध्यमास्त्वेतेऽनुक्ताः परुषमुत्तरम्॥ सभा. ७३/८॥

न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः।
प्रतिजल्पन्ति वै धीरः सदा तूत्तमपूरुषाः॥ सभा. ७३/९॥

असम्भिन्नार्यमर्यादाः साधवाः प्रियदर्शनाः॥ सभा. ७३/११॥

नैवं वाचा व्यवसितं भीम विज्ञायते सताम्॥ सभा. ७७/३०॥

तृणानि भूमिरुदकं वाक् चतुर्थी च सुनृता।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ वन. २/५४॥

बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः॥ वन. १३४/२७॥

साधुश्चासाधवे साधु साधवे नाप्नुयात् कथम्॥ वन. १९४/४॥

कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम्।
धर्ममित्येव सन्तुष्टास्ते शिष्टाः शिष्टसम्मताः॥ वन. २०७/६३॥

न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनम्।
आचारपालनं चैव द्वितीयं शिष्टलक्षणम्॥ वन. २०७/६४॥

वेदस्योपनिषद् सत्यं सत्यस्योपनिषद् दमः।
दमस्योपनिषत् त्यागः शिष्टाचारेषु नित्यदा॥ वन. २०७/६७॥

आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः॥ वन. २०७/७५॥

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च सतां धर्मः सनातनः॥ वन. २९७/३५॥

आत्मन्यपि न विश्वास्तथा भवति सत्सु यः।
तस्मात् सत्सु विशेषेण सर्वः प्रणयमिच्छति॥ वन. २९७/४२॥

सतां सदा शाश्वत धर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति।
सतां सद्भिर्नाफलः संगमोऽस्ति सद्भ्यो भयं नानुवर्तन्ति सन्तः॥ वन. २९७/४७॥

सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति।
सन्तो गतिर्भूतभव्यस्य राजन् सतां मध्ये नावसीदन्ति सन्तः॥ वन. २९७/४८॥

न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः।
यस्मादेतन्नियतं सत्सु नित्यं तस्मात् सन्तो रक्षितारो भवन्ति॥ वन. २९७/५०॥

पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम्॥ उद्योग. ४/९॥

दुःखानि वै महात्मानः प्राप्नुवन्ति युधिष्ठिर॥ उद्योग. ८/५३॥

दृढं सतां संगतं चापि नित्यं ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः।
महार्थवत् सत्पुरुषेण संगतं तस्मात् सन्तं न जिघांसेत धीरः॥ उद्योग. १०/२४॥

विद्यामदो धनमदस्तृतीयोऽभिजनो मदः।
मदा एतेऽवलिप्तानामेत एव सतां दमाः॥ उद्योग. ३४/४४॥

गतिरात्मवतां सन्तः सन्त एव सतां गतिः।
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः॥ उद्योग. ३४/४६॥

आर्जवेन नरं युक्तामार्जवात् सव्यपत्रपम्।
अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः॥ उद्योग. ३९/६२॥

अलं प्रसन्ना हि सुखाय सन्तः॥ उद्योग. ४०/१॥

अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः।
स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः॥ उद्योग. ६३/१९॥

शकुनीनामिवाकाशे पदं नैवोपलभ्यते।
एवं प्रज्ञान तृप्तस्य मुनेर्वर्त्म न विद्यते॥ उद्योग. ६३/२३॥

आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथंचन॥ द्रोण. ३३/९॥

गुणानामेव वक्तारः सन्तः सत्सु नराधिप॥ शान्ति. १३२/१३॥

असाधुभ्योऽस्य न भयं न चौरेभ्यो न राजतः।
अकिंचित् कस्यचित् कुर्वन् निर्भयः शुचिरावसेत्॥ शान्ति. २५९/१५॥

मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा।
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति॥ शान्ति. २५९/१७॥

सदाचारो मतो धर्मः सन्तस्त्वाचार लक्षणाः॥ शान्ति. २६०/५॥

धर्मात्मनः सर्वदा सज्जना हि॥ अनु. १/२६॥

अध्यात्मं नैष्ठिकं सद्भि र्धर्मकामै र्निषेव्यते॥ अनु. १४३/१६॥

तदेव तावत् पर्याप्तं सज्जनस्य निदर्शनम्॥ अनु. १४८/४२॥

न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतान्यपि।
असम्भिन्नार्य मर्यादाः साधवाः पुरुषोत्तमाः॥ आश्रमवास. १२/२॥