अप्राणो ह्यमनाः शुभ्रो...

विकिसूक्तिः तः

अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः । - मुण्डकोपनिषत् २-१-२

आत्मा अप्राणः, अमनाः, शुद्धः, परस्मात् अक्षरादपि परतरः ।

उपनिषत्प्रतिपाद्यस्य आत्मनः स्वरूपम् अयं मन्त्रः सुन्दरतया वर्णयति । अन्तर्बहिश्च
परिपूर्णोऽयमात्मा । अप्राणः आत्मा । प्राणासम्बन्धरहितः । आत्मनः प्राणो जायते,
अतः प्राणस्य अधीनता आत्मनो नास्ति । प्राणे सति वा असति वा, तेन आत्मनो
न किञ्चित् सम्भवति । तथा आत्मा अमनाः मनः सम्बन्धरहितः । आत्मन एव मनो
जायते । आत्मनिमित्तं हि मनसोऽस्तित्वम् । मनः साक्षिणः आत्मनः मनोऽधीनत्वं
नास्ति । मनश्च प्राणश्च अनात्मभूतौ एव ॥

आत्मा शुभ्रः, पुण्यपापसम्बन्धरहितः । त्रिगुणसम्बन्धो वा देशकालसम्बन्धो वा आत्मनः
अभावात् आत्मा नित्यशुद्धः । आत्मा हि अव्याकृतादपि सूक्ष्मतरः । कापिलसाङ्ख्यदर्शने
प्रतिपादितं प्रधानं सूक्ष्मं, परं च भवति । वेदान्तप्रतिपादितस्तु आत्मा एतस्मात् परात्
सूक्ष्मात् प्रधानादपि परतरः, सूक्ष्मतरः । एष आत्मनो महिमा ॥