ऊर्णनाभिन्यायः

विकिसूक्तिः तः

ऊर्णनाभिः (जालनिर्माणकुशलः कृमिः) स्वस्य शरीरात् निर्गच्छता एकेन स्निग्धेन द्रव्येण जालं निर्माति । तयैव रीत्या जालस्य नाशं करोति । तथैव ईश्वरः स्वस्मात् जगतः निर्माणं करोति संहारम् अपि करोति । एकः एव ईश्वरः जगतः उपादानं निमित्तं च कारणम् इति सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । अव्यक्तं ब्रह्म एव जगत् वयति ।

"https://sa.wikiquote.org/w/index.php?title=ऊर्णनाभिन्यायः&oldid=8839" इत्यस्माद् प्रतिप्राप्तम्