श्रीराघवयादवीयम् (श्लोकः २)

विकिसूक्तिः तः

साकेताख्या ज्यायामासी-
द्याविप्रादीप्तार्याधारा ।
पूराजीतादेवाद्यावि-
श्वासाग्र्यासावाशारावा ॥

पदविभागः[सम्पाद्यताम्]

साकेताख्या, ज्यायाम्, आसीत्
या-विप्रादीप्ता, आर्याधारा ।
पूः आजीता, अदेवाद्याविश्वासा
अग्र्या, सावाशारावा ॥

प्रतिपदार्थः[सम्पाद्यताम्]

आजीता (आजिः-इता) आजि - अजपुत्रेण दशरथेन, इता - प्राप्ता, अदेवाद्याविश्वासः - देवगन्धर्वादिभिः असाध्या, अग्र्या -
प्रथमा, सावाशारावा (सव-अश-आरावा) सव - यज्ञयागादीन्, अश - भुज्यमानदेवताः, सावशा - देवतासम्बद्धम्, आरावा -
कोलाहलयुक्तम्, आर्याधारा - अपेक्षितवस्तूनां दातॄणां वैश्यानाम् आधारभूतम्, साकेताख्या - साकेतनामकम्, पूः - नगरम्,
विप्र - ब्राह्मणैः, आदीप्ता - सर्वदिक्षु प्रकाशमानम्, आसीत् ।

तात्पर्यम्[सम्पाद्यताम्]

दशरथस्य पिता अजः । तेन अयोध्या शास्यते स्म । तत् नगरं देवताः मनसा अपि आक्रान्तुम् अशक्ताः आसन् । 'अयोध्या
मथुरा माया...' इत्येतस्याम् उक्तौ कथ्यमानासु सप्त पुण्यनगरीषु अयोध्या प्रथमत्वेन परिगण्यते । अत्यन्तं श्रेष्ठा इत्यर्थः ।
यज्ञयागादिषु हविषः स्वीकाराय उपस्थितानां देवतानां कोलाहलध्वनिना पूर्णमासीत् तत् नगरम् । प्रजानां कृते अपेक्षितानां
वस्तूनां प्रापकाः सन्ति वैश्याः । ते आर्याः इति कोशेषु उल्लिख्यते । तेषाम् आर्याणाम् आश्रयस्थानम् आसीत् इदं नगरम् ।
'साकेत'नाम्ना इदं नगरं प्रसिद्धम् आसीत् । वेदविद्याव्रतस्नातैः ब्राह्मणैः सर्वासु दिक्षु इदं नगरं प्रकाशते स्म । इदं नगरं भूमौ
शोभते स्म ।

प्रतिलोमक्रमेण श्लोकः[सम्पाद्यताम्]

वाराशावासाग्र्यासाश्वा
विद्यावादेताजीरापूः ।
राधार्याप्ता दीप्राविद्या
सीमायाज्याख्याताकेसा ॥

पदविभागः[सम्पाद्यताम्]

वाराशौ, आस, अग्र्या, साश्वा
विद्यावादे, ताजीरा, पूः ।
राधार्याप्ता, दीप्रा
विद्यासीमा, या, ज्याख्याता, के, सा ॥

प्रतिपदार्थः[सम्पाद्यताम्]

अग्र्या - उत्तमा, साश्वा - अश्वगजादिभिः युक्ता, विद्यावादे - तर्कशास्त्रादिषु, इताजीरा - प्राप्ता, वादप्रवीणानां पण्डितानाम्,
इरा - आश्रयभूता, राधार्याप्ता - राधायाः पत्या (आर्य) श्रीकृष्णेन युक्ता, दीप्रा - प्रकाशमाना, विद्यासीमा - दहरादीनां
ब्रह्मविद्यानां सिद्धिक्षेत्ररूपा, पूः - द्वारकानगरम्, ज्या - भूमौ, ख्याता - प्रसिद्धा, वाराशौ - समुद्रस्य जले, आस - आसीत् ।

तात्पर्यम्[सम्पाद्यताम्]

भूमौ द्वारकाख्या प्रसिद्धा नगरी समुद्रजले आसीत् । सा अश्वगजादिभिः युक्ता आसीत् । वादविद्या इति ख्याते तर्कशास्त्रे प्रवीणानां
पण्डितानां भूमिः आसीत् । अपि च राधारमणस्य श्रीकृष्णस्य वासस्थानम् आसीत् । प्रकाशमानानां दहरादीनां ब्रह्मविद्यानां सिद्धिक्षेत्रम्
आसीत् । इयं नगरी समुद्रजले सुशोभते स्म ।