महाभारतसूक्तयः(सेना)

विकिसूक्तिः तः

अल्पायां वा महत्यां वा सेनायमिति निश्चयः ।
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥ ------ भीष्म ३/७५

एको दीर्णो दारयति सेनां समुहतीमपी ।
तां दीर्णामनुदीर्यन्ते योधा शूरतरा अपि ॥ ---- भीष्म ३/७६

दुर्निवर्त्या तदा चव प्रभग्ना महती चमूः ।
अपामिव महावेगास्त्रस्ता मृगगणा इव ॥ -----भीष्म ३/७७

उपायविजयं श्रेष्ठमाहुर्भेदेन मध्ययम् ।
जघन्य एष विजयो यो य्द्धेन विशाम्पते ॥ ----भीष्म् ३/८१

न बाहुल्येन सेनाया जयो भवति नित्यशः ।
अधुवो हि जयो नाम दैवं चात्र परायणम् ॥----भीष्म ३/८५

संहातान् योधयेदल्पान् आमं विस्तारयेद् बहून् ॥ भीष्म १९/४

न विना नायकं सेना मुहूर्तमपि तिष्ठति ।
आहवेष्वाहवश्रेष्ठ नेतृहीनवे नौर्जले ॥ ---- द्रोण ५/८

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(सेना)&oldid=15655" इत्यस्माद् प्रतिप्राप्तम्