महाभारतसूक्तयः(स्वभावः)

विकिसूक्तिः तः

अथवा जायमानस्य यच्छीलमनुजायते ।
श्रूयते तन्महाराज नामृतस्यापसर्पति ॥ ---- वन ८/११

यादृशः पुरुष्स्यात्मा तादृशं सम्प्रभाषते ॥ --- उद्योग ३/१

सम्पन्नं गोषु सम्भाव्यं ब्राह्मणे तपः ।
सम्भाव्यं चापलं स्त्रीषु सम्भाव्यं ज्ञातितो भ्यम् ॥---- उद्योग ३६/५८

सर्वे विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् ।
पदस्थः पिहितं द्वारं परलोकस्य पश्यति ॥ ---- - शल्य ३२/५९

श्रेयसः श्रेयसोऽप्येवं वृत्तं लोकोऽनुवर्तते ।
सदैव हि गुरोवृत्त्मनुवर्तन्ति मानवाः ॥ -------- शान्ति २६७/२६