महाभारतसूक्तयः(हस्तः)

विकिसूक्तिः तः

पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै ।
न पाणिलाभादधिको लाभः कश्चन विद्यते ॥ शान्ति १८०/१२

अथ येषां पुनः पाणीदेवदत्तौ दशाङ्गुली ।
उद्धरन्ति कृमीनङ्गाद् दशतो निकषन्ति च ॥ शान्ति १८०/१४

वर्षाहिमातपानां च परित्राणानि कुर्वते ।
चैलमन्नं सुखं शय्यां निवातं चोपमुञ्जते ॥ शान्ति १८०/१५

अधिष्ठाय च च गां लोके मुञ्जते वाहयन्ति च ।
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥ शान्ति १८०/१६

ये खल्वजिह्वाः कृपणा अल्प्राणा अपाणयः ।
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥ शान्ति १८०/१७

पाणिमन्तो बलवन्तो धनवन्तोन शंशयः ।
मनुष्या मनुषैर्रेव दासत्वमुपादिताः ॥ शान्ति १८०/३४

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(हस्तः)&oldid=15670" इत्यस्माद् प्रतिप्राप्तम्