कदलीकण्टकन्यायः

विकिसूक्तिः तः

कश्चन कण्टकः कदलीपत्रे लगति चेत् किंवा कदलीपत्रम् एव कण्टकाग्रे पतति चेत् -परिणामस्तु एक एव । हानिस्तु कदलीपत्रस्य एव न तु कण्टकस्य । तथैव सज्जनस्य सङ्गः दुष्टेन भवति चेत् हानिः सज्जनस्य एव दुष्टस्य न इत्यर्थे न्यायः अयं प्रयुज्यते ।

"https://sa.wikiquote.org/w/index.php?title=कदलीकण्टकन्यायः&oldid=9033" इत्यस्माद् प्रतिप्राप्तम्