सामग्री पर जाएँ

श्रीराघवयादवीयम् (श्लोकः ३)

विकिसूक्तिः तः

कामभास्थल सारश्री
सौधासौ घनवापिका ।
सारसारव पीनासौ-
रागाकार सुभूरिभूः ॥

पदविभागः

[सम्पाद्यताम्]

कामभास्थल, सारश्री,
सौधा, असौ, घनवापिका ।
सारसारव, पीना
सरागाकार, सुभूरिभूः ॥

प्रतिपदार्थः

[सम्पाद्यताम्]

काम-भा-स्थल-सार-श्री-सौधा, काम - मन्मथस्य, भा - तेजसः, स्थल - स्थानं सत्, सारश्री - श्रेष्ठसम्पत्त्या युक्तम्,
सौधा - अट्टयुतैः गृहैः युक्तम्, घनवापिका - असङ्ख्यैः सरोवरैः युक्तम्, सारस-आरव-पीना - सारसपक्षिणां ध्वनिना युक्तम्,
असौ - साकेताख्यं नगरम्, सरागाकार-सुभूरि-भूः - सरागाकार - रक्तवर्णस्य आकारयुक्तम्, सुभूरि - सुन्दरवर्णयुक्तम्,
भूः - भूमिः, आसीत् । अत्र 'भूरि' इत्यस्य 'विश्व'कोशस्य विवरणम् एवमस्ति - 'भूरिप्राज्यसुवर्ण योः' इत्यतः सुन्दरवर्णः इति
अर्थः भवति ।

तात्पर्यम्

[सम्पाद्यताम्]

इदम् अयोध्या / साकेतनगरी अत्यन्तं सुन्दरम् आसीत् । कामोद्दीपकाः बहवः सन्निवेशाः अत्र आसन् । श्रेष्ठेन ऐश्वर्येण युक्ता
आसीत् । तत्र तत्र बहवः लघुसरोवराः आसन् । अतः एव सारसपक्षिभिः युक्ता सती आकर्षिका आसीत् । भूमिः रक्तवर्णीया सती
सुन्दरवर्णयुता आसीत् ।

प्रतिलोमक्रमेण श्लोकः

[सम्पाद्यताम्]

भूरि भूसुर कागारा-
सनापीवरसारसा ।
कापिवानघसौधासौ
श्री रसालस्थ भामका ॥

पदविभागः

[सम्पाद्यताम्]

भूरि-भूसुरकागारासना
पीवरसारसा
का, अपि, वा, अनघसौधा, असौ
श्री, रसालस्थ, भामका

प्रतिपदार्थः

[सम्पाद्यताम्]

भूरि - अधिक, भूसुरक - ब्राह्मणैः युक्तम्, अगार - गृहस्य, आसना - वितर्दियुक्तम्, पीवरम्, सारसा - कमलैः युक्तम्,
अनघसौधा - न्यूनतारहितैः अट्टगृहैः युक्तम्, काऽपि - शब्दैः, वर्णयितुम् असाध्यम्, असौ - द्वारकानगरम्, श्री रसालस्थभामका -
फलैः युक्तानाम् आम्रवृक्षाणाम् उपरि विद्यमानेन सूर्येण युक्तम् आसीत् । (श्री - फलैः युक्तम्, रसाल - आम्रवृक्षे विद्यमन, भामका -
सूर्ययुक्तम्) ।

तात्पर्यम्

[सम्पाद्यताम्]

द्वारकानगरं सुन्दरैः भवनैः युक्तम् आसीत् । तत्र वेदिकारूपेण विद्यमानाः वितर्दयः सर्वदा वेदवेदान्तनिष्णातैः ब्राह्मणैः पूर्णाः
भवन्ति स्म । स्थूलानि बृहदाकारकाणि कमलानि प्रासादेषु भवन्ति स्म । तेषु भवनेषु न कापि न्यूनता परिलक्ष्यते स्म । तस्य
नगरस्य आम्रवृक्षाः फलयुक्ताः सन्तः मनोहराः आसन् । तेषां वृक्षाणाम् उपरि सूर्यः भवति स्म । तन्नाम ते वृक्षाः गगनस्पर्शिनः
आसन् । तस्य नगरस्य सौन्दर्यं वर्णनातीतम् आसीत् ।