अमन्त्रमक्षरं नास्ति...

विकिसूक्तिः तः

सुभाषितम्

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥

सुभाषितरत्नाकरः २३३-२९

amantramakṣaraṃ nāsti nāsti mūlamanauṣadham ।
ayogyaḥ puruṣo nāsti yojakastatra durlabhaḥ ॥

पदच्छेदः

अमन्त्रम्, अक्षरं, नास्ति, नास्ति, मूलम्, अनौषधम्, अयोग्यः, पुरुषः, नास्ति, योजकः, तत्र, दुर्लभः ।


तात्पर्यम्

प्रत्येकम् अपि अक्षरं मन्त्रः भवेत् । प्रत्येकं मूलिका औषधं भवेत् । प्रत्येकं व्यक्तिः कार्यसमर्था एव । किन्तु तेषां योजकः दुर्लभः ।


आङ्ग्लार्थः

There is no syllable which cannot be turned into a sacred chant, no plant which is not of medicinal value, no man who is perfectly incapable...what is rare is the wise who can discover and rightly 'employ' them. (Chanakya)