कूपखननन्यायः

विकिसूक्तिः तः

गृहे दह्यमाने यः अग्निं शमयितुं जलम् आवश्यकमिति कूपं खनितुम् उपक्रान्तो भवति चेत् बुद्धिमान् भवति किम् ? तथा कस्यापि विषयस्य कृते पूर्वमेव सिद्धताम् अकृत्वा संकटे आपतिते उपायम् अन्विषतः विषये अयं न्यायः प्रवर्तते ।

अस्याशयस्य सुभाषितमेकं प्रसिद्धम् अस्ति –

यावत् स्वस्थमिदं शरीरमरुतं यावज्जरा दूरतो

यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः ।

आभिश्रेयसि तावदेव विदुषां कार्यः प्रयत्नो महान्

सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ नीतिशतके १३८

"https://sa.wikiquote.org/w/index.php?title=कूपखननन्यायः&oldid=9450" इत्यस्माद् प्रतिप्राप्तम्