कैदारिकन्यायः

विकिसूक्तिः तः

कैदारिको नाम कृषकः । यथा कृषकः स्वस्य केदारे जलप्रवाहः पर्याप्तो भवतु इति चिन्तनेन योग्यां व्यवस्थां कल्पयति तया च जलं क्षेत्रे पर्याप्तं प्रवहति यत्र अनावश्यकं ततः परावर्त्य कृषकः जलम् आवश्यके स्थले प्रवाहयति तथा साधकः स्वकीयां चित्तवृत्तिम् अनावश्यकविषयेभ्यः परावर्त्य आवश्यकेषु निदध्यात् इति अनेन न्यायेन बोध्यते । द्रष्टव्यम् –नीलकण्ठी ६-३५

"https://sa.wikiquote.org/w/index.php?title=कैदारिकन्यायः&oldid=9474" इत्यस्माद् प्रतिप्राप्तम्