गोक्षीरन्यायः

विकिसूक्तिः तः

महिषीदुग्धं गोदुग्धेन सह मिश्रितं चेदपि गोक्षीरस्य उपरि तस्य परिणामो न भवति । प्रत्युत सर्वमपि दुग्धं गोदुग्धं भूत्वा पवित्रं भवति । एवं अपवित्रवस्तुनः मिश्रणेन कस्यापि पवित्रस्य वस्तुनः पवित्रता नष्टा न भवति इति अस्य न्यायस्य आशयः ।

"https://sa.wikiquote.org/w/index.php?title=गोक्षीरन्यायः&oldid=9758" इत्यस्माद् प्रतिप्राप्तम्