गोमयपायसन्यायः

विकिसूक्तिः तः

गोमयं पायसं च गोः एव निष्पन्नं पदार्थद्वयम् । तथापि द्वयोः गुणधर्मयोः महान् भेदो भवति । योगसूत्रभाष्ये (१-३२) अस्य न्यायस्य प्रयोगः कृतः । मनसः स्वरुपविषये क्षणिकवादस्य खण्डनसमये भाष्यकारेण गोमयपायसन्यायस्य प्रयोगः कृतः ।

अन्यप्रत्ययोपचितस्य च कर्मशयस्य अन्यः प्रत्युपभोक्ता भवेत् ।

कथञ्चित् समाधीयमानमपि एतद् गोमयपायसीयन्यायम् आक्षिपति । (एकस्य विषयस्य एकः अंशः ग्राह्यः अपरश्च अग्राह्य इति उच्यते तर्हि गोः सकाशात् निर्गतं गोमयमपि पायसवद् भक्ष्यमेव भवेत् )

"https://sa.wikiquote.org/w/index.php?title=गोमयपायसन्यायः&oldid=9739" इत्यस्माद् प्रतिप्राप्तम्