छत्रिन्यायः

विकिसूक्तिः तः

छत्रधारिणः गच्छन्ति इत्युक्ते छत्रधारिभिः सह अछत्रधारिणां जनानाम् अन्तर्भावो भवति इति प्राधान्येन व्यपदेशा भवन्ति इति च अनेन न्यायेन सूच्यते । यथा –

  • एकस्तत्र कर्मफलं पिबति भुङ्क्ते नेतरः, तथापि पातृसंबन्धात् पिबन्तौ इत्युच्यते छत्रिन्यायेन । कठोपनिषदः शाङ्करभाष्ये ३-१
  • तस्मादेकदेशस्थितैरपि विश्वेदेवैरुपलक्षितानां छत्रिन्यायेन तत्प्रख्यातयैव सर्वेषां नामधेयानाम् । जैमिनिसूत्र शाबरभाष्ये १-४-२८, १-४-१३,१-४-२३, २. तन्त्रवार्तिके १०-३४७
"https://sa.wikiquote.org/w/index.php?title=छत्रिन्यायः&oldid=9793" इत्यस्माद् प्रतिप्राप्तम्