डमरुकमणिन्यायः

विकिसूक्तिः तः

डमरुकम् इति कश्चन वाद्यविशॆषः । उभयपार्श्वयोः तस्य चर्मपुटस्य कारणेन उभयपार्श्वभ्यां नादो भवति । मध्ये एकरज्ज्वा एकः लोहशकलः बद्धो भवति । यदा डमरुकम् इतस्ततः चाल्यते तदा तस्य लोहशकलस्य कारणेन चर्मपुटस्य उपरि नादो भवति । एवम् एक एव उभयपक्षयोः ग्रहणं करोति इति अस्य आशयः ।

यथा – अन्यार्थमिति मध्यवर्तिपदं डमरुकमणिन्यायेन उभयत्रापि संबद्धनीयम् । (स्याद्वादमञ्जर्याः टीकायाम् ११ कारिका )

"https://sa.wikiquote.org/w/index.php?title=डमरुकमणिन्यायः&oldid=9811" इत्यस्माद् प्रतिप्राप्तम्