चण्डालकन्यकान्यायः
कश्चन राजा कयाचित् चण्डालकन्यकया सह विवाहं कृतवान् । एकदा द्वावपि विहारार्थ गजमारुह्य गच्छतः स्म । तदा एकः महर्षिः दृष्टः । सः राजा गजात् अवरुह्य तं महर्षिं नमस्कृतवान् । एतद् दृष्ट्वा सा चण्डालकन्यका सः महर्षिरेव श्रेष्ठ इति चिन्तयित्वा तेन सह गन्तुमारब्धवती । मार्गे एकः शिवालयः दृष्टः । सः महर्षिः देवालये वर्तमानं शिवलिङ्गं नमस्कृतवान् । तत् दश्ष्ट्वा सा शिवः एव श्रेष्ठ इति चिन्तयित्वा महर्षि परित्यज्य तत्रैव स्थिता । एकदा एकः शुनकः आगत्य तस्य शिवलिङ्गस्य उपरि मूत्रविसर्जनं कृतवती । तदा स शुनक एव श्रेष्ठ इति भावयित्वा सा कन्यका शुनकम् अनुसश्तवती । यदा सः शुनकः एकस्य चण्डालस्य समीपं गत्वा तं परितः भ्रमितुम् आरभत तदा सा चण्डालकन्यका सः चण्डाल एव श्रेष्ठ इति मत्वा तेन सह वासं कर्तुम् आरब्धवती ।
एवं मन्दबुद्धेः पूर्ववासनाकारणेन पूर्वस्थितिरेव अन्ततः प्राप्यत इति अनेन बोध्यते ।