चतुर्वेदविन्न्यायः
दिखावट
यस्य चतुर्णां वेदानां ज्ञानं भवति तस्मै किमपि प्रदातव्यम् इति केनचित् क्वचित् श्रुतम् । सः एकस्य संपन्नस्य समीपं गत्वा “ श्रीमन् वेदाः चत्वारः इति अहं जानामि । अतः अहं चतुर्वेदवित् । तर्हि मह्यं किमपि प्रदेयम्” इति उक्तवान् । तत् श्रुत्वा सः संपन्नः तस्य मनुष्यस्य अज्ञानं ज्ञात्वा तं ताडितवान् ।
एवं ब्रह्म सच्चिदानन्दरुपं, अहं ब्रह्मास्मि, अयमात्मा ब्रह्म इत्यादीनि वाक्यानि श्रुत्वा कोऽपि अनवरतं तानि रटति चेत् हासास्पदं न भवेत किम् ? केवलशब्दज्ञानेन यथार्थज्ञानी न भवतीति अनेन बोध्यते । ब्रह्म इति शब्दस्य ज्ञानं, ब्रह्मज्ञानमिति च द्वयोः महदन्तरं वर्तते खलु ।