चम्पक- पटन्यायः

विकिसूक्तिः तः

कस्मिन्नपि वस्त्रे कस्यामपि पेटिकायां वा चम्पकपुष्पाणि स्थापितानि चेत् एतावान् सुगन्धो भवति यत् पुष्पाणि अपनीतानि चेदपि सः सुगन्धः तत् वस्त्रं ताम् पेटिकां वा व्याप्य तत्र भवति । सज्जनानां संगतिरपि एवम् अधिककालं यावत् जीवनं सुगन्धयतीति न्यायस्य अस्य आशयः । (सा. २८५)

"https://sa.wikiquote.org/w/index.php?title=चम्पक-_पटन्यायः&oldid=9881" इत्यस्माद् प्रतिप्राप्तम्