चित्रतुरगन्यायः
चित्रे चित्रितस्य तुरगस्य दर्शनेन यथार्थस्य अश्वस्य स्मरणज्ञानं भवति । लघुबालकानां तावत् अश्वज्ञानं नवीनं भवति । तथा अयथार्थस्य आधारेण यथार्थस्य ज्ञानं भवतीति न्यायस्य आशयः ।
भरतनाट्यशास्त्रस्य अभिनवभारतीनाम्नी अभिनवगुप्तटीका प्रसिद्धा । तत्र शङ्कुकमतस्य उल्लेखो विद्यते । शङ्कुकनामकः आचार्योऽपि भरतसूत्रस्य व्याख्यां कृतवान् । स्वव्याख्यायां तेन अस्य न्यायस्य प्रयोगः कृतः । यदा कश्चन नटः अभिनयति तदा तस्य विभावादिकं कृत्रिममेव भवति । ततः सामाजिकाः तस्मात् कृत्रिमसामग्रीविशेषात् स्थायिभावस्य अनुमानं कृत्वा तस्य दृश्यस्य आस्वादं प्राप्नुवन्ति
। एवं भ्रान्तिज्ञानतः अपि इष्टफलं लभ्यते इति अयं न्यायः बोधयति । सामाजिकस्य रसास्वादः चित्रतुरगन्यायेन भवतीति शङ्कुकाचार्यस्य आशयः ।
(द्रष्टव्यम् – काव्यप्रकाशस्य झळ्कीकरव्याख्या ५.८८, अभिनवभारती पृष्ठ २७५)